ॐAarti Sangraha
My Sangraha
🕉️

Sai Baba ·

श्री साईनाथ महिम्न स्तोत्रम

सदा सत्स्वरूपं चिदानंदकंद, जगत्संभवस्थानसंहार हे तुम् ।

स्वभक्तेच्छया मानुषं दर्शयंत, नमामीश्वरं सद्गुरुसाईनाथम्

॥१॥

भवध्वांतविध्वंस मार्तडमीड्यं, मनोवागतीतं मुनीर्ध्यानगम्यम् ।

जगद्व्यापकं निर्मलं निर्गुणं त्वा, नमामी०

॥२॥

भवांभोधि मग्नार्दितानां जनानां, स्वपादाश्रितानां स्वभक्तिप्रियाणाम् ।

समुद्धारणार्थ कलौ संभवन्तं, नमामी

॥३॥

सदा निंबवृक्षस्य मूलाधिवासात्सुधास्त्राविणं तिक्तमप्यप्रियं तम् ।

तरूं कल्पवृक्षाधिकं साधयंतं, नमामी ||४||

॥४॥

सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावबुद्ध्या सपर्यादिसेवाम् ।

नृणां कुर्वतां भुक्तिमुक्तिप्रदं तं, नमामी०

॥५॥

अनेकाश्रृतातयलीला विलासैः समाविष्कृतेशानभास्वत्प्रभावम् ।

अहंभावहीनं प्रसन्नात्मभावं, नमामी ||६||

॥६॥

सतां विश्रमाराममेवाभिरामं सदा सज्जन: संस्तुतं सन्नमद्धिः।

जनामोदद भक्तभद्रप्रदं तं, नमामी०

॥७॥

अजन्माद्यमेकं परं ब्रम्ह साक्षात्स्वयंसंभवं-राममेवावतीर्णम् ।

भवद्दर्शनात्संपुनीतः प्रभोऽहं, नमामी०

॥८॥

श्रीसाईशकृपानिधेऽखिलनृणां सर्वार्थसिद्धप्रद । युष्मत्पादरजः प्रभावमतुलं धातापि वक्ताऽक्षमः ।

सद्भक्त्या शरणं कृतांजलिपुट: संप्रापितोऽस्मि प्रभो, श्रीमत्साईपरेशपादकमलान्नान्यच्छरण्यं मम

॥९॥

साईरूपधरराघवोत्तम, भक्तकामविबुधदुमं प्रभुम् ।

माययोपहतचित्तशुद्धये, चिंतयाम्यहमहर्निश मुदा

॥१०॥

शरत्सुधांशुप्रतिमप्रकाश, कृपातपात्रं तव साईनाथ ।

त्वदीयपादाब्जसमाश्रिताना स्वच्छायया तापमपाकरोतु

॥११॥

उपासनादैवतसाइनाथ, स्तवैर्मयो पासनिना स्तुतस्त्वम ।

रमेन्मनो मे तव पादयुग्मे, भृङ्गो, यथाब्जे मकरंदलुब्धः

॥१२॥

अनेकजन्मार्जितपापसंक्षयो, भवेद्भवत्पादसरोजदर्शनात् ।

क्षमस्व सर्वानपराध पुंजकान्प्रसीद साईश गुरो दयानिधे

॥१३॥

श्री साईनाथचरणामृतपूतचित्तास्तत्पादसेवनरताः सततं च भक्त्या |

संसारजन्यदुरितौधविनिर्गतास्ते कैवल्यधाम परमं समवाप्नुवन्ति

॥१४॥

स्तोत्रमेतत्पठेद्भक्त्या यो नरस्तन्मना: सदा ।

सद्गुरोः साइनाथस्य कृपापात्रं भवेद् ध्रुवम्

॥१५॥