ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या संति देवाः ।।
॥१॥ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कूर्महे।
स मे कामान्कामकामाय मह्यं कामेश्वरो वैश्रवणो दधातु ।
कुबेराय वैश्रवणाय । महाराजाय नमः । ॐ स्वस्ति ।
साम्राज्यं भौंज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्य राज्यं
माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौम:
सार्वायुष आंतादापरार्धात् पृथिव्यैसमुद्रपर्यंताया एकराळिति ।
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥
॥२॥श्री नारायण वासुदेव सच्चिदानंद सद्गुरु साईंनाथ महाराज की जय॥
॥३॥